Parthivi Gems

Parthivi Gems रत्न उपरत्न एवं अनुष्ठान यज्ञादि से संबंधित सभी जानकारी एवं संबंधित सवालों के लिए हमे फॉलो करें।

🍁🌿।। श्री उमा महेश्वर स्तोत्रं ।।  🌿🍁          नमः शिवाभ्यां नवयौवनाभ्यांपरस्पराश्लिष्टवपुर्धराभ्याम् ।नगॆन्द्रकन्यावृषक...
07/07/2025

🍁🌿।। श्री उमा महेश्वर स्तोत्रं ।। 🌿🍁

नमः शिवाभ्यां नवयौवनाभ्यां
परस्पराश्लिष्टवपुर्धराभ्याम् ।
नगॆन्द्रकन्यावृषकॆतनाभ्यां
नमॊ नमः शङ्करपार्वतीभ्याम् ॥०१॥

नमः शिवाभ्यां सरसॊत्सवाभ्यां
नमस्कृताभीष्टवरप्रदाभ्याम् ।
नारायणॆनार्चितपादुकाभ्यां
नमॊ नमः शङ्करपार्वतीभ्याम् ॥०२॥

नमः शिवाभ्यां वृषवाहनाभ्यां
विरिञ्चिविष्ण्विन्द्रसुपूजिताभ्याम् ।
विभूतिपाटीरविलॆपनाभ्यां
नमॊ नमः शङ्करपार्वतीभ्याम् ॥०३॥

नमः शिवाभ्यां जगदीश्वराभ्यां
जगत्पतिभ्यां जयविग्रहाभ्याम् ।
जम्भारिमुख्यैरभिवन्दिताभ्यां
नमॊ नमः शङ्करपार्वतीभ्याम् ॥०४॥

नमः शिवाभ्यां परमौषधाभ्यां
पञ्चाक्षरीपञ्जररञ्जिताभ्याम् ।
प्रपञ्चसृष्टिस्थितिसंहृताभ्यां
नमॊ नमः शङ्करपार्वतीभ्याम् ॥०५॥

नमः शिवाभ्यामतिसुन्दराभ्यां
अत्यन्तमासक्तहृदम्बुजाभ्याम् ।
अशॆषलॊकैकहितङ्कराभ्यां
नमॊ नमः शङ्करपार्वतीभ्याम् ॥०६॥

नमः शिवाभ्यां कलिनाशनाभ्यां
कङ्कालकल्याणवपुर्धराभ्याम् ।
कैलासशैलस्थितदॆवताभ्यां
नमॊ नमः शङ्करपार्वतीभ्याम् ॥०७॥

नमः शिवाभ्यामशुभापहाभ्यां
अशॆषलॊकैकविशॆषिताभ्याम् ।
अकुण्ठिताभ्यां स्मृतिसम्भृताभ्यां
नमॊ नमः शङ्करपार्वतीभ्याम् ॥०८॥

नमः शिवाभ्यां रथवाहनाभ्यां
रवीन्दुवैश्वानरलॊचनाभ्याम् ।
राकाशशाङ्काभमुखाम्बुजाभ्यां
नमॊ नमः शङ्करपार्वतीभ्याम् ॥०९॥

नमः शिवाभ्यां जटिलन्धराभ्यां
जरामृतिभ्यां च विवर्जिताभ्याम् ।
जनार्दनाब्जॊद्भवपूजिताभ्यां
नमॊ नमः शङ्करपार्वतीभ्याम् ॥१०॥

नमः शिवाभ्यां विषमॆक्षणाभ्यां
बिल्वच्छदामल्लिकदामभृद्भ्याम् ।
शॊभावतीशान्तवतीश्वराभ्यां
नमॊ नमः शङ्करपार्वतीभ्याम् ॥११॥

नमः शिवाभ्यां पशुपालकाभ्यां
जगत्रयीरक्षणबद्धहृद्भ्याम् ।
समस्तदॆवासुरपूजिताभ्यां
नमॊ नमः शङ्करपार्वतीभ्याम् ॥१२॥

स्तॊत्रं त्रिसन्ध्यं शिवपार्वतीभ्यां
भक्त्या पठॆद्द्वादशकं नरॊ यः ।
स सर्वसौभाग्यफलानि
भुङ्क्तॆ शतायुरान्तॆ शिवलॊकमॆति ॥१३॥

इति
श्रीमच्छङ्कराचार्यस्य कृतम्
श्रीउमामहेश्वरस्तोत्रम् संपूर्णम् ॥

°°°°°°°°°°°°°°°°°°°°°°°°°°°
🌿🍁🌿🍁🌿🍁🌿🍁🌿🍁

श्री मन नारायण 🪷
25/06/2025

श्री मन नारायण 🪷

25/06/2025
हर हर महादेव ☯️
25/06/2025

हर हर महादेव ☯️

जय श्री राम 🚩
25/06/2025

जय श्री राम 🚩

हर हर महादेव 🌿
25/06/2025

हर हर महादेव 🌿

हर हर महादेव
25/06/2025

हर हर महादेव

हर हर महादेव ☯️  #पंचक विचार--
18/06/2025

हर हर महादेव ☯️
#पंचक विचार--

Address

Hathsarganj
Hajipur
844103

Telephone

+917739657670

Website

Alerts

Be the first to know and let us send you an email when Parthivi Gems posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Parthivi Gems:

Share