05/08/2024                                                                            
                                    
                                                                            
                                            ***Vedadhara से साभार***
*Aditya Stuti*
आदिरेष हि भूतानामादित्य इति संज्ञितः ।
त्रैलोक्यचक्षुरेवाऽत्र परमात्मा प्रजापतिः ।
एष वै मण्डले ह्यस्मिन् पुरुषो दीप्यते महान् ।
एष विष्णुरचिन्त्यात्मा ब्रह्मा चैष पितामहः ।
रुद्रो महेन्द्रो वरुण आकाशं पृथिवी जलम् ।
वायुः शशाङ्कः पर्जन्यो धनाध्यक्षो विभावसुः ।
य एव मण्डले ह्यस्मिन् पुरुषो दीप्यते महान् ।
एकः साक्षान्महादेवो वृत्रमण्डनिभः सदा ।
कालो ह्येष महाबाहुर्निबोधोत्पत्तिलक्षणः ।
य एष मण्डले ह्यस्मिंस्तेजोभिः पूरयन् महीम् ।
भ्राम्यते ह्यव्यवच्छिन्नो वातैर्योऽमृतलक्षणः ।
नातः परतरं किञ्चित् तेजसा विद्यते क्वचित् ।
पुष्णाति सर्वभूतानि एष एव सुधाऽमृतैः ।
अन्तःस्थान् म्लेच्छजातीयांस्तिर्यग्योनिगतानपि ।
कारुण्यात् सर्वभूतानि पासि त्वं च विभावसो ।
श्वित्रकुष्ठ्यन्धबधिरान् पङ्गूंश्चाऽपि तथा विभो ।
प्रपन्नवत्सलो देव कुरुते नीरुजो भवान् ।
चक्रमण्डलमग्नांश्च निर्धनाल्पायुषस्तथा ।
प्रत्यक्षदर्शी त्वं देव समुद्धरसि लीलया ।
का मे शक्तिः स्तवैः स्तोतुमार्त्तोऽहं रोगपीडितः ।
स्तूयसे त्वं सदा देवैर्ब्रह्मविष्णुशिवादिभिः ।
महेन्द्रसिद्धगन्धर्वैरप्सरोभिः सगुह्यकैः ।
स्तुतिभिः किं पवित्रैर्वा तव देव समीरितैः ।
यस्य ते ऋग्यजुःसाम्नां त्रितयं मण्डलस्थितम् ।
ध्यानिनां त्वं परं ध्यानं मोक्षद्वारं च मोक्षिणाम् ।
अनन्ततेजसाऽक्षोभ्यो ह्यचिन्त्याव्यक्तनिष्कलः ।
यदयं व्याहृतः किञ्चित् स्तोत्रे ह्यस्मिन् जगत्पतिः ।
आर्तिं भक्तिं च विज्ञाय तत्सर्वं ज्ञातुमर्हसि ।
aadiresha hi bhootaanaamaaditya iti sanjnyitah' .
trailokyachakshurevaa'tra paramaatmaa prajaapatih' .
esha vai mand'ale hyasmin purusho deepyate mahaan .
esha vishnurachintyaatmaa brahmaa chaisha pitaamahah' .
rudro mahendro varuna aakaasham' pri'thivee jalam .
vaayuh' shashaankah' parjanyo dhanaadhyaksho vibhaavasuh' .
ya eva mand'ale hyasmin purusho deepyate mahaan .
ekah' saakshaanmahaadevo vri'tramand'anibhah' sadaa .
kaalo hyesha mahaabaahurnibodhotpattilakshanah' .
ya esha mand'ale hyasmim'stejobhih' poorayan maheem .
bhraamyate hyavyavachchhinno vaatairyo'mri'talakshanah' .
naatah' parataram' kinchit tejasaa vidyate kvachit .
pushnaati sarvabhootaani esha eva sudhaa'mri'taih' .
antah'sthaan mlechchhajaateeyaam'stiryagyonigataanapi .
kaarunyaat sarvabhootaani paasi tvam' cha vibhaavaso .
shvitrakusht'hyandhabadhiraan pangoom'shchaa'pi tathaa vibho .
prapannavatsalo deva kurute neerujo bhavaan .
chakramand'alamagnaam'shcha nirdhanaalpaayushastathaa .
pratyakshadarshee tvam' deva samuddharasi leelayaa .
kaa me shaktih' stavaih' stotumaartto'ham' rogapeed'itah' .
stooyase tvam' sadaa devairbrahmavishnushivaadibhih' .
mahendrasiddhagandharvairapsarobhih' saguhyakaih' .
stutibhih' kim' pavitrairvaa tava deva sameeritaih' .
yasya te ri'gyajuh'saamnaam' tritayam' mand'alasthitam .
dhyaaninaam' tvam' param' dhyaanam' mokshadvaaram' cha mokshinaam .
anantatejasaa'kshobhyo hyachintyaavyaktanishkalah' .
yadayam' vyaahri'tah' kinchit stotre hyasmin jagatpatih' .
aartim' bhaktim' cha vijnyaaya tatsarvam' jnyaatumarhasi .
Meaning:
आदिरेष हि भूतानामादित्य इति संज्ञितः।
त्रैलोक्यचक्षुरेवात्र परमात्मा प्रजापतिः॥
This Aditya, known as the first among beings, is the Supreme Soul, the lord of all beings, the eye of the three worlds.
आदिरेष - this first हि - indeed भूतानाम् - of beings आदित्य - Aditya, Sun इति - thus संज्ञितः - is called त्रैलोक्य - three worlds चक्षुः - eye एव - indeed अत्र - here परमात्मा - Supreme Soul प्रजापतिः - lord of beings
एष वै मण्डले ह्यस्मिन् पुरुषो दीप्यते महान्।
एष विष्णुरचिन्त्यात्मा ब्रह्मा चैष पितामहः॥
This great being shines in this orb; He is Vishnu, the incomprehensible soul, and also Brahma, the grandsire.
एष - this वै - indeed मण्डले - in the orb हि - indeed अस्मिन् - in this पुरुषः - man दीप्यते - shines महान् - great विष्णुः - Vishnu अचिन्त्यात्मा - incomprehensible soul ब्रह्मा - Brahma च - and पितामहः - grandsire
रुद्रो महेन्द्रो वरुण आकाशं पृथिवी जलम्।
वायुः शशाङ्कः पर्जन्यो धनाध्यक्षो विभावसुः॥
He is Rudra, Mahendra, Varuna, the sky, the earth, water, air, the moon, Parjanya, the lord of wealth, and the fire.
रुद्रः - Rudra महेन्द्रः - Mahendra वरुणः - Varuna आकाशम् - sky पृथिवी - earth जलम् - water वायुः - air शशाङ्कः - moon पर्जन्यः - Parjanya धनाध्यक्षः - lord of wealth विभावसुः - fire
य एष मण्डले ह्यस्मिन् पुरुषो दीप्यते महान्।
एकः साक्षान्महादेवो वृत्रमण्डनिभः सदा॥
This great being shines in this orb; He is indeed Mahadeva, always shining like the destroyer of Vritra.
यः - who एष - this मण्डले - in the orb हि - indeed अस्मिन् - in this पुरुषः - man दीप्यते - shines महान् - great एकः - one साक्षात् - indeed महादेवः - Mahadeva वृत्रमण्डनिभः - like the destroyer of Vritra सदा - always
कालो ह्येष महाबाहुर्निबोधोत्पत्तिलक्षणः।
य एष मण्डले ह्यस्मिंस्तेजोभिः पूरयन् महीम्॥
This mighty-armed one is Time, the cause of creation. He fills the earth with his brilliance.
कालः - Time हि - indeed एष - this महाबाहुः - mighty-armed निबोध - know उत्पत्तिलक्षणः - cause of creation यः - who एष - this मण्डले - in the orb हि - indeed अस्मिन् - in this तेजोभिः - with brilliance पूरयन् - filling महीम् - the earth
भ्राम्यते ह्यव्यवच्छिन्नो वातैर्योऽमृतलक्षणः।
नातः परतरं किंचित् तेजसा विद्यते क्वचित्॥
He moves without interruption, marked by immortality. There is nothing superior to him in brilliance anywhere.
भ्राम्यते - moves हि - indeed अव्यवच्छिन्नः - without interruption वातैः - by winds यः - who अमृतलक्षणः - marked by immortality न - not अतः - than this परतरम् - superior किंचित् - anything तेजसा - in brilliance विद्यते - exists क्वचित् - anywhere
पुष्णाति सर्वभूतानि एष एव सुधामृतैः।
अन्तःस्थान् म्लेच्छजातीयांस्तिर्यग्योनिगतानपि॥
He nourishes all beings with nectar and sustains even those of inferior birth and animal origins.
पुष्णाति - nourishes सर्वभूतानि - all beings एष - this एव - indeed सुधामृतैः - with nectar अन्तःस्थान् - residing within म्लेच्छजातीयान् - of inferior birth तिर्यग्योनिगतान् - of animal origins अपि - also
कारुण्यात् सर्वभूतानि पासि त्वं च विभावसो।
श्वित्रकुष्ठ्यन्धबधिरान् पंगूंश्चापि तथा विभो॥
Out of compassion, you protect all beings, O Surya, including those afflicted with leprosy, blindness, deafness, and lameness.
कारुण्यात् - out of compassion सर्वभूतानि - all beings पासि - you protect त्वम् - you च - and विभावसो - O Surya श्वित्र - leprosy कुष्ठ - leprosy अन्ध - blindness बधिरान् - deafness पंगून् - lameness च - and अपि - also तथा - thus विभो - O Lord
प्रपन्नवत्सलो देव कुरुते नीरुजो भवान्।
चक्रमण्डलमग्नांश्च निर्धनाल्पायुषस्तथा॥
O Lord, you are affectionate to the surrendered and make them disease-free. You also help the poor and those with short life spans.
प्रपन्नवत्सलः - affectionate to the surrendered देव - O Lord कुरुते - makes नीरुजः - disease-free भवान् - you चक्रमण्डलम् - in the orb of the wheel अग्नान् - fire च - and निर्धनान् - poor अल्पायुषः - short life spans तथा - thus
प्रत्यक्षदर्शी त्वं देव समुद्धरसि लीलया।
का मे शक्तिः स्तवैः स्तोतुमार्तोऽहं रोगपीडितः॥
O Lord, you directly see and effortlessly uplift. What power do I have to praise you, being afflicted with disease and distress?
प्रत्यक्षदर्शी - directly seeing त्वम् - you देव - O Lord समुद्धरसि - uplift लीलया - effortlessly का - what मे - my शक्तिः - power स्तवैः - with praises स्तोतुम् - to praise आर्तः - afflicted अहम् - I रोगपीडितः - afflicted with disease
स्तूयसे त्वं सदा देवैर्बह्मविष्णुशिवादिभिः।
महेन्द्रसिद्धगन्धर्वैरप्सरोभिः सगुह्यकैः॥
You are always praised by gods, Brahma, Vishnu, Shiva, Mahendra, Siddhas, Gandharvas, Apsaras, and Guhyakas.
स्तूयसे - are praised त्वम् - you सदा - always देवैः - by gods ब्रह्म - Brahma विष्णु - Vishnu शिवादिभिः - and Shiva महेन्द्र - Mahendra सिद्ध - Siddhas गन्धर्वैः - Gandharvas अप्सरोभिः - Apsaras स - and गुह्यकैः - Guhyakas
स्तुतिभिः किं पवित्रैर्वा तव देव समीरितैः।
यस्य ते ऋग्यजुः साम्नां त्रितयं मण्डलस्थितम्॥
What use are praises or hymns to you, O Lord, whose essence is enshrined in the Rig, Yajur, and Sama Vedas?
स्तुतिभिः - with praises किम् - what पवित्रैः - holy वा - or तव - your देव - O Lord समीरितैः - chanted यस्य - whose ते - your ऋक् - Rig Veda यजुः - Yajur Veda साम्नाम् - Sama Veda त्रितयम् - trio मण्डलस्थितम् - enshrined in the orb
ध्यानिनां त्वं परं ध्यानं मोक्षद्वारं च मोक्षिणाम्।
अनन्ततेजसाक्षोभ्यो ह्यचिन्त्याव्यक्तनिष्कलः॥
You are the supreme meditation for yogis, the gateway to liberation for the liberated, with infinite, unshakable, inconceivable, and unmanifested brilliance.
ध्यानिनाम् - for meditators त्वम् - you परम् - supreme ध्यानम् - meditation मोक्षद्वारम् - gateway to liberation च - and मोक्षिणाम् - for the liberated अनन्ततेजः - infinite brilliance अक्षोभ्यः - unshakable हि - indeed अचिन्त्यः - inconceivable अव्यक्तः - unmanifested निष्कलः - without parts
यदयं व्याहृतः किंचित् स्तोत्रेऽस्मिञ्जगतः पतिः।
आर्तिं भक्तिं च विज्ञाय तत्सर्वं ज्ञातुमर्हसि॥
Whatever little is expressed in this hymn, O Lord of the universe, recognizing my distress and devotion, you should know it all.
यत् - whatever अयम् - this व्याहृतः - expressed किंचित् - a little स्तोत्रे - in the hymn अस्मिन् - in this जगतः - of the universe पतिः - Lord आर्तिम् - distress भक्तिम् - devotion च - and विज्ञाय - recognizing तत् - that सर्वम् - all ज्ञातुम् - to know अर्हसि - should
Benefits of Chanting the Stotra:
Chanting these verses with devotion provides health benefits and relief from diseases. It invokes the supreme energy of Surya Bhagavan, purifying the mind and granting clarity. Regular recitation can lead to inner peace and divine blessings, promoting overall well-being, health, and healing.