08/07/2024
हिक्का- श्वास रोग के निदान
रजसा धूमवाताभ्यां शीतस्थानाम्बुसेवनात् ।
व्यायामाद्ग्राम्यधर्माध्वरूक्षान्नविषमाशनात् ॥११॥
आमप्रदोषादानाहाद्रौक्ष्यादत्यपतर्पणात् ।
दौर्बल्यान्मर्मणो घाताद्द्वन्द्वाच्छुद्ध्यतियोगतः ॥१२॥
अतीसारज्वरच्छर्दिप्रतिश्यायक्षतक्षयात् ।
रक्तपित्तादुदावर्ताद्विसूच्यलसकादपि ॥१३॥
पाण्डुरोगाद्विषाच्चैव प्रवर्तेते गदाविमौ ।
निष्पावमाषपिण्याकतिलतैलनिषेवणात् ॥१४॥
पिष्टशालूकविष्टम्भिविदाहिगुरुभोजनात् ।
जलजानूपपिशितदध्यामक्षीरसेवनात् ॥१५॥
अभिष्यन्द्युपचाराच्च श्लेष्मलानां च सेवनात् ।
कण्ठोरसः प्रतीघाताद्विबन्धैश्च पृथग्विधैः ॥१६॥